ग्रहगतेः आधुनिकसिद्धान्ताः
Abstract
Sanskritज्योतिषशास्त्रस्य मौलिकसिद्धान्तः ग्रहगतिसिद्धान्त एव। तस्याध्ययनं विना ज्योतिषशास्त्रस्य कस्यचित् स्कन्धस्य सम्यक् मूल्याङ्कनं तस्य शुभाशुभफलस्य विवेचनं वा कर्तुं न शक्यते। ग्रहगतिसिद्धान्तसम्बद्धाः बहवो सन्दर्भाः भारतीयपाश्चात्यविदुषां ग्रन्थेषु प्राप्यन्ते। ग्रहगतिसिद्धान्तानां गणितीयगणनया स्पष्टग्रहफलानि प्राप्यन्ते। अतएव ग्रहस्फुटीकरणार्थं गतिसिद्धान्तस्य आवश्यकता अपेक्षिता। तत्र ग्रहसापेक्ष्यत्वात् प्राच्यप्रतीच्योभयमतं विमृश्य यथार्थासन्नमतानुसारि भेदोपभेदपुरस्सरं गणितीयविमर्शो ग्रहगतिसिद्धान्त इत्येतादृशी परिभाषा प्राप्यते। अत्र ग्रहगतिविषये आधुनिकसिद्धान्तानां विवेचनं क्रियते। वैदिककालान्तरेऽपि ग्रहगतिसिद्धान्ते (Planetary Motion Theory) बहवो महत्त्वपूर्णविकासा अभवन् येषु पाश्चात्यवैज्ञानिकानामपि महत्त्वपूर्णं योगदानं विद्यते। तेषामेव केचन प्रमुखसिद्धान्ताः संक्षेपेण कुञ्जीरूपेण च अत्र प्रस्तुताः सन्ति।
