📚 Issue VI | Year III · August 2025 · pp. 26–30

श्रीमद्भागवतानुसृतः ग्रहविचारः

सम
सु. मुरलिः
ज्योतिषविभागः
Sanskrit

Abstract

Sanskrit

यत्र भागवतं भवति तत्र भगवान् प्रादुर्भवति इति उक्तत्वात् वेदसमान मुख्यत्वं अस्मिन् भागवतपुराणे वेदाङ्गभूतज्योतिषविषयाः बहवः तत्र तत्र सुविचारिताः वर्तन्ते । तेषु ग्रहाणां स्थितिः एवं तेषां गतिविषयः अपि अन्यतमः वर्तते । तत्र सूर्यस्थितिविचारः वर्तते “स एष भगवान् आदिपुरुषः एव नारायणो लोकानां स्वस्तय आत्मानं त्रयीमयं कर्मविशुद्धिनिमित्तं कविभिरपि च वेदेन विजिज्ञास्यमाने द्वादशधा विभज्य षट्सु वसन्तादिष्वृतुषु यतोपजोषमृगुणान् विदधाति” । अत्र सूर्यः इत्यर्थे “ सः “ इति पदम् उपयुक्तं वर्तते । सः आदित्यः एव भगवान् विष्णुः । अस्य लोकस्य मङ्गलार्थं एवं वेदेषु उक्तत्रिविधकर्मविशुद्धिनिमित्तम् आत्मानं द्वदशधा विभज्य सर्वप्राणिनां स्वस्तये च वसन्तादिषु षट्सु ऋतुषु यथा कर्मभोगं ऋतुगुणान् शीतोष्णादीन् विदधाति ।

Keywords

वेदाङ्गम् ज्योतिशास्त्रम् सिद्धान्तः संहिता होरा त्रिस्कन्धाः त्रिकालफलकथनम् कालनिर्णयः वास्तुः शुभाशुभविषयाः खगोलः गणितम् श्रीमद्भागवतमहापुराणम्।

Paper Details

Issue
Issue VI | Year III
Published
August 2025
Pages
pp. 26–30
Language
Sanskrit
ISSN
3048-6319 (Online)
Publisher
Baraudi Sanskriti Sanskrit Sanskar Shiksha Samiti

How to Cite

सु. मुरलिः. "श्रीमद्भागवतानुसृतः ग्रहविचारः." Bundelkhand Vimarsh, Issue VI | Year III (August 2025), pp. 26–30. ISSN: 3048-6319.