📚 Issue VII | Year III · December 2026 · pp. 1-3

शिल्पशास्त्रेषु मण्डपलक्षणम्

आद
आकाश दीप
शोध छात्र इंदिरा गाँधी राष्ट्रीय मुक्त विश्वविद्यालय दिल्ली
Sanskrit

Abstract

Sanskrit

प्रस्तुत शोधपत्रे भारतीयशिल्पशास्त्रपरम्परायां मण्डपस्य स्वरूपं, प्रयोजनं तथा लक्षणं समग्रदृष्ट्या विवेचितम् अस्ति। देवालयः केवलं पूजास्थानरूपेण न, अपि तु धार्मिक-सामाजिक-सांस्कृतिकक्रियाणां केन्द्रत्वेन प्रतिष्ठितः इति दृष्ट्या मण्डपस्य विशेषमहत्त्वं प्रतिपाद्यते। शिल्पशास्त्रेषु मण्डपः स्तम्भयुक्ता छादिता च स्थापत्यसंरचना इति निर्दिष्टः, यस्य अनिवार्यलक्षणद्वयं स्तम्भविन्यासः तथा छादनम् इति स्पष्टं भवति। मानसार-मयमत- काश्यपशिल्पशास्त्र-आगमिकग्रन्थेषु मण्डपस्य न केवलं रचनात्मकं, अपि तु अनुष्ठानिकं, क्रियात्मकं तथा उपयोगप्रधानं स्वरूपं निरूपितं दृश्यते। सभा-नृत्य-यज्ञमण्डपादिभेदैः मण्डपस्य बहुकार्यात्मकस्वभावः प्रकाशते। समराङ्गणसूत्रधारे प्रतिपादितं मण्डपस्य सौन्दर्यात्मकं महत्त्वं दर्शयति यत् सः देवालयस्य दृश्यवैभवस्य प्रमुखोपादानम् अपि अस्ति। प्रदेशभेदेन मण्डपरूपेषु वैविध्यं दृश्यते, तथापि सर्वासु स्थापत्यपरम्परासु मण्डपस्य मूलभावः—देवालयस्य क्रियात्मककेन्द्रत्वम्—समान एव वर्तते। अतः निष्कर्षरूपेण मण्डपः भारतीयशिल्पशास्त्रेषु न गौणः, अपि तु संरचना-क्रिया-सौन्दर्य-प्रतीकात्मकार्थानां

Keywords

मण्डपः शिल्पशास्त्रम् देवालयस्थापत्यम् मानसारः मयमतम् काश्यपशिल्पशास्त्रम् आगमाः अनुष्ठानम् स्तम्भविन्यासः भारतीयमन्दिरपरम्परा ।

Paper Details

Issue
Issue VII | Year III
Published
December 2026
Pages
pp. 1-3
Language
Sanskrit
ISSN
3048-6319 (Online)
Publisher
Baraudi Sanskriti Sanskrit Sanskar Shiksha Samiti

How to Cite

आकाश दीप. "शिल्पशास्त्रेषु मण्डपलक्षणम्." Bundelkhand Vimarsh, Issue VII | Year III (December 2026), pp. 1-3. ISSN: 3048-6319.