छात्राणां बौद्धिकविकासे तन्त्रयुक्तीनां प्रभावः
Abstract
Sanskritविविधेषु जीवेषु मानवो बुद्धिकारणादेव श्रेष्ठो मन्यते । बुद्धिरेव मानवं पशुभ्यः पृथक्करोति । मानवस्य अनन्यायाः एतास्याः योग्यतायाः विषये परिज्ञानस्य प्रयासाः आदिकालात् प्रचलिताः वर्तन्ते । विश्ववाङ्मयेषु पुरातने भारतीयवाङ्मयेऽपि बुद्धिसन्दर्भे प्रभूतो विचारः प्रस्तुतो वतते। भारतीयदर्शने बुद्धिः प्रकृतेर्विकासस्य प्रथमं चरणं महत्तत्त्वरूपेण निरूपिता वर्तते । महत्तत्त्वे बुद्धिरहङ्कारमनस्तत्त्वानि निहितानि सन्ति । महत्तत्त्वमेव मनोविकासरूपा बुद्धिरिति कथ्यते। बुद्धौ स्मृतिसंस्कारौ विद्येते। बुद्धिरन्तःकरणस्याङ्गरूपेणापि मन्यते। एषा सङ्कल्पविकल्पात्मिकशक्तिरूपेणापि वर्णिता वर्तते । इयमेव निश्चयात्मिकाशक्तिरपि कथिता वर्तते। व्यवहाराध्ययनसन्दर्भे बुद्धिः अनन्ययोग्यतारूपेण मन्यते । एषा वैयक्तिकभिन्नतायाः कारणभूता वर्तते । मनोवैज्ञानिकाः बुद्धेर्व्याख्याप्रयासे एतस्याः सम्बन्धं शिक्षणेन, अधिगमेन व्यक्तित्वेन च स्वीकुर्वन्ति । व्यक्तेः भौतिकं, सामाजिकं, सांस्कृतिकञ्च परिवेशं तस्य बुद्धिं पोषयति। एवं स्वकीयस्य विकासस्य विविधासु शैशवबाल्याद्यवस्थासु जनाः अधिगमस्य कौशलस्य चार्जनं कुर्वन्ति ।
